Bhaktamar Stotra Lyrics In Sanskrit

Bhaktamar Stotra Lyrics In Sanskrit

वसंततिलकावृत्तम्। सर्व विघ्न उपद्रवनाशक

भक्तामर-प्रणत-मौलि-मणि-प्रभाणा- मुद्योतकं दलित-पाप-तमो-वितानम् । सम्यक्प्रणम्य जिन-पाद-युगं युगादा- वालम्बनं भव-जले पततां जनानाम् ॥1॥ शत्रु तथा शिरपीडा नाशक

यःसंस्तुतः सकल-वांग्मय-तत्त्वबोधा- दुद्भूत-बुद्धि-पटुभिः सुरलोक-नाथै । स्तोत्रैर्जगत्त्रितय-चित्त-हरै-रुदारैः, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥2॥ सर्वसिद्धिदायक

बुद्धया विनापि विबुधार्चित-पाद-पीठ, स्तोतुं समुद्यत-मतिर्विगत-त्रपोहम् । बालं विहाय जल-संस्थित-मिन्दु-बिम्ब- मन्यःक इच्छति जनः सहसा ग्रहीतुम् ॥3॥ जलजंतु निरोधक

वक्तुं गुणान् गुण-समुद्र! शशांक-कांतान्, कस्ते क्षमः सुर-गुरु-प्रतिमोपि बुद्धया । कल्पांत-काल-पवनोद्धत-नक्र-चक्रं, को वा तरीतु-मलमम्बु निधिं भुजाभ्याम् ॥4॥ नेत्ररोग निवारक

सोहं तथापि तव भक्ति-वशान्मुनीश, कर्तुं स्तवं विगत-शक्ति-रपि प्रवृतः । प्रीत्यात्म-वीर्य-मविचार्य्य मृगी मृगेन्द्रं, नाभ्येति किं निज-शिशोः परि-पालनार्थम् ॥5॥ विद्या प्रदायक

अल्पश्रुतं श्रुतवतां परिहास-धाम, त्वद्भक्ति-रेव-मुखरी-कुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति, तच्चाम्र-चारु-कालिका-निकरैक-हेतु ॥6॥ सर्व विष व संकट निवारक

त्वत्संस्तवेन भव-संतति-सन्निबद्धं पापं क्षणात्क्षय-मुपैति शरीर-भाजाम् । आक्रांत-लोक-मलिनील-मशेष-माशु, सूर्यांशु-भिन्न-मिव शार्वर-मन्धकारम्॥7॥ सर्वारिष्ट निवारक

मत्वेति नाथ तव संस्तवनं मयेद- मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेषु, मुक्ताफल-द्युति-मुपैति ननूद-बिन्दुः ॥8॥ सर्वभय निवारक

आस्तां तव स्तवन-मस्त-समस्त-दोषं, त्वत्संकथापि जगतां दुरितानि हंति । दूरे सहस्त्र-किरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकास-भांजि ॥9॥ कूकर विष निवारक

नात्यद्भुतं भुवन-भूषण-भूतनाथ, भूतैर्गुणैर्भुवि भवंत-मभिष्टु-वंतः । तुल्या भवंति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति ॥10॥ इच्छित-आकर्षक

दृष्ट्वा भवंत-मनिमेष-विलोकनीयं, नान्यत्र तोष-मुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धो, क्षारं जलं जलनिधे रसितुँ क इच्छेत् ॥11॥ हस्तिमद-निवारक

यैः शांत-राग-रुचिभिः परमाणु-भिस्त्वं, निर्मापितस्त्रि-भुवनैक-ललाम-भूत । तावंत एव खलु तेप्यणवः पृथिव्यां, यत्ते समान-मपरं न हि रूपमस्ति ॥12॥ चोर भय व अन्यभय निवारक

वक्त्रं क्व ते सुर-नरोरगनेत्र-हारि, निःशेष-निर्जित-जगत्त्रित-योपमानम् । बिम्बं कलंक-मलिनं क्व निशाकरस्य, यद्वासरे भवति पाण्डु-पलाश-कल्पम् ॥13॥ आधि-व्याधि-नाशक लक्ष्मी-प्रदायक

सम्पूर्ण-मण्डल-शशांक-कला कलाप- शुभ्रा गुणास्त्रिभुवनं तव लंग्घयंति । ये संश्रितास्त्रिजगदीश्वर-नाथमेकं, कस्तान्निवारयति संचरतो यथेष्टम ॥14॥ राजसम्मान-सौभाग्यवर्धक

चित्रं किमत्र यदि ते त्रिदशांगनाभि- नीतं मनागपि मनो न विकार-मार्गम् । कल्पांत-काल-मरुता चलिता चलेन किं मन्दराद्रि-शिखरं चलितं कदाचित् ॥15॥ सर्व-विजय-दायक

निर्धूम-वर्त्ति-रपवर्जित-तैलपूरः, कृत्स्नं जगत्त्रयमिदं प्रकटी-करोषि । गम्यो न जातु मरुतां चलिता-चलानां, दीपोपरस्त्वमसि नाथ! जगत्प्रकाशः ॥16॥ सर्व उदर पीडा नाशक

नास्तं कदाचिदुपयासि न राहु-गम्यः, स्पष्टी-करोषि सहसा युगपज्जगंति । नाम्भोधरोदर-निरुद्ध-महा-प्रभावः, सूर्यातिशायि-महिमासि मुनीन्द्र लोके ॥17॥ शत्रु सेना स्तम्भक

नित्योदयं दलित-मोह-महान्धकारं। गम्यं न राहु-वदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्ज-मनल्प-कांति, विद्योतयज्-जगदपूर्व-शशांक-विम्बम् ॥18॥ जादू-टोना-प्रभाव नाशक

किं शर्वरीषु शशिनान्हि विवस्वता वा, युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ । निष्पन्न-शालि-वन-शालिनी जीव-लोके, कार्यं कियज्-जलधरैर्जल-भारनम्रैः ॥19॥ संतान-लक्ष्मी-सौभाग्य-विजय बुद्धिदायक

ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरि-हरादिषु नायकेषु । तेजःस्फुरन्मणिषु याति यथा महत्वं, नैवं तु काच-शकले किरणा-कुलेपि ॥20॥ सर्व वशीकरण्

मन्ये वरं हरि-हरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्मनो हरति नाथ भवांतरेपि ॥21॥ भूत-पिशाचादि व्यंतर बाधा निरोधक

स्त्रीणां शतानि शतशो जनयंति पुत्रान्- नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्त्र-रश्मिं, प्राच्येव दिग्जनयति स्फुर-दंशु-जालम् ॥22॥ प्रेत बाधा निवारक

त्वामा-मनंति मुनयः परमं पुमांस- मादित्य-वर्ण-ममलं तमसः पुरस्तात् त्वामेव सम्य-गुपलभ्य जयंति मृत्युं, नान्यः शिवः शिव-पदस्य मुनीन्द्र पंथाः ॥23॥ शिर पीडा नाशक

त्वा-मव्ययं विभु-मचिंत्य-मसंखय-माद्यं, ब्रह्माण-मीश्वर-मनंत-मनंग केतुम् । योगीश्वरं विदित-योग-मनेक-मेकं, ज्ञान-स्वरूप-ममलं प्रवदंति संतः ॥24॥ नज़र (दृष्टि देष) नाशक

बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्, त्त्वं शंकरोसि भुवन-त्रय-शंकरत्वात् । धातासि धीर! शिव-मार्ग-विधेर्-विधानात्, व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोसि ॥25॥ आधा शीशी (सिर दर्द) एवं प्रसूति पीडा नाशक

तुभ्यं नम स्त्रिभुवनार्ति-हाराय नाथ, तुभ्यं नमः क्षिति-तलामल-भूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥26॥ शत्रुकृत-हानि निरोधक

को विस्मयोत्र यदि नाम गुणैरशेषै, स्त्वं संश्रितो निरवकाश-तया मुनीश । दोषै-रुपात्त-विविधाश्रय-जात-गर्वैः, स्वप्नांतरेपि न कदाचिद-पीक्षितोसि ॥27।। सर्व कार्य सिद्धि दायक

उच्चैर-शोक-तरु-संश्रित-मुन्मयूख- माभाति रूप-ममलं भवतो नितांतम् । स्पष्टोल्लसत-किरणमस्त-तमोवितानं, बिम्बं रवेरिव पयोधर-पार्श्ववर्ति ॥28॥ नेत्र पीडा व बिच्छू विष नाशक

सिंहासने मणि-मयूख-शिखा-विचित्रे, विभाजते तव वपुः कानका-वदातम । बिम्बं वियद्-विलस-दंशु-लता-वितानं, तुंगोदयाद्रि-शिरसीव सहस्त्र-रश्मेः ॥29॥ शत्रु स्तम्भक

कुन्दावदात-चल-चामर-चारु-शोभं, विभ्राजते तव वपुः कलधौत-कांतम् । उद्यच्छशांक-शुचि-निर्झर-वारि-धार- मुच्चैस्तटं सुर-गिरेरिव शात-कौम्भम् ॥30॥ राज्य सम्मान दायक व चर्म रोग नाशक

छत्र-त्रयं तव विभाति शशांक-कांत- मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम् । मुक्ता-फल-प्रकर-जाल-विवृद्ध-शोभं, प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् ॥31॥ संग्रहणी आदि उदर पीडा नाशक

गम्भीर-तार-रव-पूरित-दिग्वभाग- स्त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्षः । सद्धर्म-राज-जय-घोषण-घोषकः सन्, खे दुन्दुभिर्-ध्वनति ते यशसः प्रवादि ॥32॥ सर्व ज्वर नाशक

मन्दार-सुन्दर-नमेरु-सुपारिजात संतानकादि-कुसुमोत्कर-वृष्टिरुद्धा । गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता, दिव्या दिवः पतति ते वयसां ततिर्वा ॥33॥ गर्व रक्षक

शुम्भत्प्रभा-वलय-भूरि-विभा विभोस्ते, लोकत्रये द्युतिमतां द्युतिमा-क्षिपंती । प्रोद्यद्दिवाकर्-निरंतर-भूरि-संख्या, दीप्त्या जयत्यपि निशामपि सोम-सौम्याम् ॥34॥ दुर्भिक्ष चोरी मिरगी आदि निवारक

स्वर्गा-पवर्ग-गममार्ग-विमार्गणेष्टः, सद्धर्म-तत्त्व-कथनैक-पटुस-त्रिलोक्याः । दिव्य-ध्वनिर-भवति ते विशदार्थ-सर्व- भाषा-स्वभाव-परिणाम-गुणैः प्रयोज्यः ॥35॥ सम्पत्ति-दायक

उन्निद्र-हेम-नवपंकजपुंज-कांती, पर्युल्लसन्नख-मयूख-शिखा-भिरामौ । पादौ पदानि तव यत्र जिनेन्द्र धत्तः, पद्मानि तत्र विबुधाः परि-कल्पयंति ॥36॥ दुर्जन वशीकरण

इत्थं यथा तव विभूति-रभूज्जिनेन्द्र, धर्मोप-देशन विधौ न तथा परस्य । यादृक् प्रभा देनकृतः प्रहतान्ध-कारा, तादृक्कुतो ग्रह-गणस्य विकासिनोपि ॥37॥ हाथी वशीकरण

श्च्योतन-मदा-विल-विलोल-कपोल-मूल- मत्त-भ्रमद-भ्रमर-नाद विवृद्ध-कोपम् । ऐरावताभ-मिभ-मुद्धत-मापतंतं, दृष्टवा भयं भवति नो भवदा-श्रितानाम् ॥38॥ सिंह भय निवारक

भिन्नेभ-कुम्भ-गल-दुज्ज्वल-शोणिताक्त- मुक्ताफल-प्रकर-भूषित-भूमिभागः । बद्ध-क्रमः क्रम-गतं हरिणा-धिपोपि, नाक्रामति क्रम-युगाचल-संश्रितं ते ॥39॥ अग्नि भय निवारक

कल्पांत-काल-पवनोद्धत-वह्नि-कल्पं, दावानलं ज्वलित-मुज्ज्वल-मुत्स्फुलिंगम् । विश्वं जिघत्सुमिव सम्मुख-मापतंतं, त्वन्नाम-कीर्तन-जलं शमयत्य-शेषम् ॥40॥ सर्प विष निवारक

रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं, क्रोधोद्धतं फणिन-मुत्फण-मापतंतम् । आक्रामति क्रमयुगेन निरस्त-शंकस्- त्वन्नाम-नाग-दमनी हृदि यस्य पुंस ॥41॥ युद्ध भय निवारक

वल्गत्तुरंग-गज-गर्जित-भीम-नाद- माजौ बलं बलवतामपि भू-पतीनाम् । उद्यद्-दिवाकर-मयूख-शिखा-पविद्धं, त्वत्कीर्त्तनात्-तम इवाशु भिदा-मुपैति ॥42॥ युद्ध में रक्षक और विजय दायक

कुंताग्र-भिन्न-गज-शोणित-वारिवाह- वेगावतार-तरणातुर-योध-भीमे । युद्धे जयं विजित-दुर्जय-जेय-पक्षास्- त्वत्-पाद-पंकज-वना-श्रयिणो लभंते ॥43॥ भयानक-जल-विपत्ति नाशक

अम्भो-निधौ क्षुभित-भीषण-नक्र-चक्र- पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ । रंगत्तरंग-शिखर-स्थित-यान-पात्रास्- त्रासं विहाय भवतः स्मरणाद्-व्रजंति ॥44॥ सर्व भयानक रोग नाशक

उद्भूत-भीषण-जलोदर-भार-भुग्नाः, शोच्यां दशा-मुपगताश्-च्युत-जीविताशाः । त्वत्पाद-पंकज-रजोमृतदिग्ध-देहाः, मर्त्या भवंति मकर-ध्वज-तुल्य-रूपाः ॥45॥ कारागार आदि बन्धन विनाशक

आपाद-कण्ठ-मुरुशृंखल-वेष्टितांगा, गाढं बृहन्निगड-कोटि-निघृष्ट-जंघाः । त्वन्नाम-मंत्र-मनिशं मनुजाः स्मरंतः सद्यः स्वयं विगत-बन्ध-भया भवंति ॥46॥ सर्व भय निवारक

मत्त-द्विपेन्द्र-मृगराज-दवानलाहि- संग्राम-वारिधि-महोदर-बन्धनोत्थम् । तस्याशु नाश-मुपयाति भयं भियेव, यस्तावकं स्तव-मिमं मतिमान-धीते ॥47॥ मनोवांछित सिद्धिदायक

स्तोत्र-स्त्रजं तव जिनेन्द्र गुणैर्-निबद्धां भक्त्या मया विविध-वर्ण-विचित्र-पुष्पाम् । धत्ते जनो य इह कण्ठ-गतामजसं तं मानतुंगमवश समुपैति लक्ष्मीः ॥48॥

|| समाप्त ||

© 2023 by Jain Lyrics.